logo

Shri Kunj Bihari Ashtakam

logo
الكلمات
य: स्तूयते श्रुतिगणैर्निपुणैरजस्रं, सम्पूज्यते क्रतुगतै: प्रणतै: क्रियाभि:।

तं सर्वकर्मफ़लदं निजसेवकानां, श्रीमद्‍ विहारिचरणं शरणं प्रपद्ये॥1॥

यं मानसे सुमतयो यतयो निधाय, सद्यो जहु: सहृदया हृदयान्धकारम्।

तं चन्द्रमण्डल-नखावलि-दीप्यमानं, श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥2॥

येन क्षणेन समकारि विपद्वियोगो, ध्यानास्पदं सुगमितेन नुतेन विज्ञै:।

तं तापवारण-निवारण-सांकुशांकं ,श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥3॥

यस्मै विधाय विधिना विधिनारदाद्या:, पूजां विवेकवरदां वरदास्यभावा:।

तं दाक्षलक्षण-विलक्षण-लक्षणाढ्यं, श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥4॥

यस्मात् सुखैकसदनान्मदनारिमुख्या:, सिद्धि समीयुरतुलां सकलांगशोभाम्।

तं शुद्धबुद्धि-शुभवृद्धि-समृद्धि-हेतुं, श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥5॥

यस्य प्रपन्नवरदस्य प्रसादत: स्यात्, तापत्रयापहरणं शरणं गतानाम्।

तं नीलनीरजनिभं जनिभंजनाय, श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥॥6॥

यस्मिन् मनो विनिहितं भवति प्रसन्नं, खिन्नं कदिन्द्रियगणैरपि यद्विष्ण्णम्।

तं वास्तव-स्तव-निरस्त-समस्त दुखं, श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥7॥

हे कृष्णपाद! शमिताति-विषादभक्त-वांछा-प्रदामर-महीरूह-पंचशाख।

संसार-सागर-समुत्तरणे वहित्र, हे चिह्न-चित्रितचरित्र नमो नमस्ते॥8॥

इदं विष्णो: पादाष्टकमतिविशादाभिशमनम्, प्रणीतं यत्प्रेरणा सुकवि-जगदीशेन विदुषा।

पठेदयो वा भक्तयाऽच्युति-चरण-चेता: स मनुजो, भवे भुक्त्वा भोगानभिसरति चान्ते हरिपदम्॥९॥