menu-iconlogo
huatong
huatong
avatar

Shree Hari Stotram

G. Gayathri Devihuatong
freakinhell8huatong
Lyrics
Recordings
जगज्जालपालं चलत्कण्ठमालं शरच्चन्द्रभालं महादैत्यकालं

नभोनीलकायं दुरावारमायं सुपद्मासहायम् भजेऽहं भजेऽहं

सदाम्भोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासं

गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहं

रमाकण्ठहारं श्रुतिव्रातसारं जलान्तर्विहारं धराभारहारं

चिदानन्दरूपं मनोज्ञस्वरूपं ध्रुतानेकरूपं भजेऽहं भजेऽहं

जराजन्महीनं परानन्दपीनं समाधानलीनं सदैवानवीनं

जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजेऽहं भजेऽहं

कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानं

स्वभक्तानुकूलं जगद्व्रुक्षमूलं निरस्तार्तशूलं भजेऽहं भजेऽहं

समस्तामरेशं द्विरेफाभकेशं जगद्विम्बलेशं ह्रुदाकाशदेशं

सदा दिव्यदेहं विमुक्ताखिलेहं सुवैकुण्ठगेहं भजेऽहं भजेऽहं

सुरालिबलिष्ठं त्रिलोकीवरिष्ठं गुरूणां गरिष्ठं स्वरूपैकनिष्ठं

सदा युद्धधीरं महावीरवीरं महाम्भोधितीरं भजेऽहं भजेऽहं

रमावामभागं तलानग्रनागं कृताधीनयागं गतारागरागं

मुनीन्द्रैः सुगीतं सुरैः संपरीतं गुणौधैरतीतं भजेऽहं भजेऽहं

More From G. Gayathri Devi

See alllogo

You May Like