menu-iconlogo
logo

Mantrapushpanjali

logo
Letras
ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||

ॐ राजाधिराजाय प्रसह्यसाहिने।

नमो वयं वैश्रवणाय कुर्महे |

स मे कामान्कामकामाय मह्यम् ।

कामेश्वरो वैश्रवणो ददातु |

कुबेराय वैश्रवणाय महाराजाय नमः ||

ॐ स्वस्ति| साम्राज्यं भौज्यं स्वाराज्यं

वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं

समंतपर्यायी स्यात्सार्वभौमः

सार्वायुष आंतादापरार्धात् ।।

पृथिव्यै समुद्रपर्यंताया एकराळिति

तदप्येषः श्लोको भिगीतो मरुतः

परिवेष्टारो मरुत्तस्यावसन् गृहे ।।

आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ।।