menu-iconlogo
logo

Shri shivastkam

logo
avatar
anooplogo
ரிசிங்ஸ்டர்2025🎶🙂logo
アプリ内で歌う
歌詞
॥ श्री शिवाष्टकम् ॥

0.05- प्रभुं प्राणनाथं विभुं विश्वनाथं

प्रभुं प्राणनाथं विभुं विश्वनाथं

जगन्नाथनाथं सदानन्दभाजम् ।

भवद्भव्यभूतेश्वरं भूतनाथं

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुं प्राणनाथं विभुं विश्वनाथं

प्रभुं प्राणनाथं विभुं विश्वनाथं (कोरस )॥ १॥

1.14- music

1.32- गले रुण्डमालं तनौ सर्पजालं

महाकालकालं गणेशाधिपालम् ।

जटाजूटगङ्गोत्तरङ्गैर्विशालं

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुं प्राणनाथं विभुं विश्वनाथं

प्रभुं प्राणनाथं विभुं विश्वनाथं (कोरस )॥ २॥

2.29- music

2.46- मुदामाकरं मण्डनं मण्डयन्तं

महामण्डलं भस्मभूषाधरं तम् ।

अनादिह्यपारं महामोहमारं

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुं प्राणनाथं विभुं विश्वनाथं

प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस )॥ ३॥

3.42-music

4.00- वटाधोनिवासं महाट्टाट्टहासं

महापापनाशं सदासुप्रकाशम् ।

गिरीशं गणेशं सुरेशं महेशं

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुंप्राणनाथं विभुं विश्वनाथं

प्रभुं प्राणनाथं विभुं विश्वनाथं (कोरस )॥ ४॥

4.55- music

5.13- गिरिन्द्रात्मजा संग्रहीतार्धदेहं

गिरौ संस्थितं सर्वदा सन्नगेहम् ।

परब्रह्म ब्रह्मादि भिर्वन्ध्यमानं

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुं प्राणनाथं विभुं विश्वनाथं

प्रभुं प्राणनाथं विभुं विश्वनाथं (कोरस )॥ ५॥

6.09- music

6.27- कपालं त्रिशूलं कराभ्यां दधानं

पदाम्भोजनम्ग्राय कामं ददानम् ।

बलीवर्दयानं सुराणां प्रधानं

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुं प्राणनाथं विभुंविश्व नाथं

प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस )॥ ६॥

7.21- music

7.38- शरच्चन्द्रगात्रं गुणानन्द पात्रं

त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।

अपर्णाकलत्रं चरित्रं विचित्रं

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुं प्राणनाथं विभुंविश्व नाथं

प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस) ॥ ७॥

8.33- music

8.50- हरं सर्पहारं चिता भूविहारं

भवं वेदसारं सदा निर्विकारम् ।

श्मशाने वसन्तं मनोजं दहन्तं

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस )

प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस )॥ ८॥

॥ इति शिवाष्टकं सम्पूर्णम् ॥

Shri shivastkam by anoop - 歌詞&カバー